शुक्रवार, 16 नवंबर 2007

रक्षाबन्धनोत्सवस्य चित्रपञ्चिका



अस्यां चित्रपञ्चिकायां पञ्चजनास्सन्ति. एकमस्ति मम मित्रस्यानुजः राकेशः यः सम्प्रति जवाहरलालनेहरूविश्वविद्यालयतः "संगणकविज्ञाने" शोधं करोति. द्वितीयोऽस्ति ममानुजः सुधाकरः यः ईग्नूतः पर्यटनाध्ययने स्नातकं करोति. या अस्माकं रक्षासूत्रे बध्नाति सा राकेशस्यानुजा रिंकी अस्ति, ज.ने.विश्वविद्यालये कोरियायीभाषायां स्नातकं करोति. अन्यतमा या "मॉडल" बालिका अस्ति सा मम भगिनीपुत्री तथा मम हृदयमस्ति-सुप्रिया. स्वविषये कथनस्यावश्यकता न मन्ये. सत्यं कथयामि न वा.....??? चित्रपञ्चिकायाः सर्वाणि चित्राणि द्रष्टु‌म्‌ उपरि स्थापितचित्रे क्लिक्कुरु.

कोई टिप्पणी नहीं:

एक टिप्पणी भेजें

आपकी टिप्पणी ही हमारा पुरस्कार है।