शनिवार, 14 जुलाई 2007

कर्ममाहात्म्यम्

ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे, 
विष्णुर्येन दशावतारगहने क्षिप्तो महासङ्कटे । 
रुद्रो येन कपालपाणिपुटके भिक्षाटनं कारितः, 
सूर्यो भ्राम्यति नित्यमेव गगने, तस्मै नमः कर्मणे ॥ 
-भर्तृहरिणा, नीतिशतकात्

सरलसंस्कृतार्थ :- कर्मवशादेव ब्रह्मा कुम्भकारवत् सृष्टिकार्यं निरमपयति, विष्णुश्च दशसु अवतारेषु कष्टं सहते । शिवश्च कपालजटितेन पाणिना हस्तेन वा भिक्षार्थं पर्यटति । दिवाकरोऽपि गगने सततं भ्रमति । येन कर्मणा एतेऽपि नियोजिताः तं कर्मम् अवश्यं नमस्करणीयम् ।

हिन्दीसरलार्थ :- जिस कर्म ने विधाता को ब्रह्माण्डरूपी पात्र के अन्दर कुम्हार की तरह सृष्टि कार्य हेतु नियोजित किया, विष्णु को दशावतार रूपी कष्टतम कार्य में नियुक्त किया, शंकर को हाथ में खप्पर लेकर भिक्षाटन कराया और सूर्य को आकाश में निरन्तर भ्रमण कराता है, उस कर्म को नमस्कार है ।

2 टिप्‍पणियां:

  1. इस टिप्पणी को एक ब्लॉग व्यवस्थापक द्वारा हटा दिया गया है.

    जवाब देंहटाएं
  2. सुष्ठूक्तं । कीदृशाः ते निरर्थकं परहितबाधने रताः जनाः भवन्ति, वयं कथितुं न शक्नुमः । परं चिन्तयन्तु भवन्तः तादृशां जनानां विषये ये स्वार्थं परित्यज्य तेषामपि चतुर्थकोटिकानां जनानां हितं साधयन्ति यै ते प्रथमं निरर्थकमेव पीडिताः भवन्ति । तत् सर्वं विस्मार्य अपि ते प्रथमकोटिकजनानामिव आचरन्ति ।

    धन्यास्ते कृतिनो वयं न तेषां कोटिं गणिष्यामहे ।

    जवाब देंहटाएं

आपकी टिप्पणी ही हमारा पुरस्कार है।